Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

निर्गुणमानसपूजा nirguṇamānasapūjā

शिष्य उवाच

śiṣya uvāca

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ १ ॥

akhaṇḍe saccidānande nirvikalpaikarūpiṇi ;
sthite’dvitīyabhāve’pi kathaṃ pūjā vidhīyate . 1 .

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ २ ॥

pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam ;
svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ . 2 .

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३ ॥

nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca ;
agotrasya tvavarṇasya kutastasyopavītakam . 3 .

निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः ॥ ४ ॥

nirlepasya kuto gandhaḥ puṣpaṃ nirvāsanasya ca ;
nirviśeṣasya kā bhūṣā ko’laṅkāro nirākṛteḥ . 4 .

निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५ ॥

nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ ;
nijānandaikatṛptasya naivedyaṃ kiṃ bhavediha . 5 .

विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते ।
स्वयम्प्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ ६ ॥

viśvānandayitustasya kiṃ tāmbūlaṃ prakalpate ;
svayamprakāśacidrūpo yo’sāvarkādibhāsakaḥ . 6 .

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनन्तस्य प्रणामोऽद्वयवस्तुनः ॥ ७ ॥

gīyate śrutibhistasya nīrājanavidhiḥ kutaḥ ;
pradakṣiṇamanantasya praṇāmo’dvayavastunaḥ . 7 .

वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अन्तर्बहिः संस्थितस्य उद्वासनविधिः कुतः ॥ ८ ॥

vedavācāmavedyasya kiṃ vā stotraṃ vidhīyate ;
antarbahiḥ saṃsthitasya udvāsanavidhiḥ kutaḥ . 8 .

श्रीगुरुरुवाच

śrīgururuvāca

आराधयामि मणिसन्निभमात्मलिङ्गं
मायापुरीहृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै-
र्नित्यं समाधिकुसुमैरपुनर्भवाय ॥ ९ ॥

ārādhayāmi maṇisannibhamātmaliṅgaṃ
māyāpurīhṛdayapaṅkajasanniviṣṭam ;
śraddhānadīvimalacittajalābhiṣekai-
rnityaṃ samādhikusumairapunarbhavāya . 9 .

अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ १० ॥

ayameko’vaśiṣṭo’smītyevamāvāhayecchivam ;
āsanaṃ kalpayetpaścātsvapratiṣṭhātmacintanam . 10 .

पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वान्सर्वकल्मषनाशनम् ॥ ११ ॥

puṇyapāparajaḥsaṅgo mama nāstīti vedanam ;
pādyaṃ samarpayedvidvānsarvakalmaṣanāśanam . 11 .

अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ १२ ॥

anādikalpavidhṛtamūlājñānajalāñjalim ;
visṛjedātmaliṅgasya tadevārghyasamarpaṇam . 12 .

ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ १३ ॥

brahmānandābdhikallolakaṇakoṭyaṃśaleśakam ;
pibantīndrādaya iti dhyānamācamanaṃ matam . 13 .

ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
अक्लेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ १४ ॥

brahmānandajalenaiva lokāḥ sarve pariplutāḥ ;
akledyo’yamiti dhyānamabhiṣecanamātmanaḥ . 14 .

निरावरणचैतन्यप्रकाशोऽस्मीति चिन्तनम् ।
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५ ॥

nirāvaraṇacaitanyaprakāśo’smīti cintanam ;
ātmaliṅgasya sadvastramityevaṃ cintayenmuniḥ . 15 .

त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चय एवात्र द्युपवीतं परं मतम् ॥ १६ ॥

triguṇātmāśeṣalokamālikāsūtramasmyaham ;
iti niścaya evātra dyupavītaṃ paraṃ matam . 16 .

अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया ।
नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥ १७ ॥

anekavāsanāmiśraprapañco’yaṃ dhṛto mayā ;
nānyenetyanusandhānamātmanaścandanaṃ bhavet . 17 .

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८ ॥

rajaḥsattvatamovṛttityāgarūpaistilākṣataiḥ ;
ātmaliṅgaṃ yajennityaṃ jīvanmuktiprasiddhaye . 18 .

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९ ॥

īśvaro gururātmeti bhedatrayavivarjitaiḥ ;
bilvapatrairadvitīyairātmaliṅgaṃ yajecchivam . 19 .

समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २० ॥

samastavāsanātyāgaṃ dhūpaṃ tasya vicintayet ;
jyotirmayātmavijñānaṃ dīpaṃ sandarśayedbudhaḥ . 20 .

नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१ ॥

naivedyamātmaliṅgasya brahmāṇḍākhyaṃ mahodanam ;
pibānandarasaṃ svādu mṛtyurasyopasecanam . 21 .

अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ २२ ॥

ajñānocchiṣṭakarasya kṣālanaṃ jñānavāriṇā ;
viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smaret . 22 .

रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ २३ ॥

rāgādiguṇaśūnyasya śivasya paramātmanaḥ ;
sarāgaviṣayābhyāsatyāgastāmbūlacarvaṇam . 23 .

अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् ।
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४ ॥

ajñānadhvāntavidhvaṃsapracaṇḍamatibhāskaram ;
ātmano brahmatājñānaṃ nīrājanamihātmanaḥ . 24 .

विविधब्रह्मसन्दृष्टिमालिकाभिरलङ्कृतम् ।
पूर्णानन्दात्मता दृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५ ॥

vividhabrahmasandṛṣṭimālikābhiralaṅkṛtam ;
pūrṇānandātmatā dṛṣṭiṃ puṣpāñjalimanusmaret . 25 .

परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ २६ ॥

paribhramanti brahmāṇḍasahasrāṇi mayīśvare ;
kūṭasthācalarūpo’hamiti dhyānaṃ pradakṣiṇam . 26 .

विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यकः ।
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७ ॥

viśvavandyo’hamevāsmi nāsti vandyo madanyakaḥ ;
ityālocanamevātra svātmaliṅgasya vandanam . 27 .

आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ २८ ॥

ātmanaḥ satkriyā proktā kartavyābhāvabhāvanā ;
nāmarūpavyatītātmacintanaṃ nāmakīrtanam . 28 .

श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् ।
मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ २९ ॥

śravaṇaṃ tasya devasya śrotavyābhāvacintanam ;
mananaṃ tvātmaliṅgasya mantavyābhāvacintanam . 29 .

ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३० ॥

dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ ;
samastabhrāntivikṣeparāhityenātmaniṣṭhatā . 30 .

समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
तत्रैवं ब्रह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१ ॥

samādhirātmano nāma nānyaccittasya vibhramaḥ ;
tatraivaṃ brahmaṇi sadā cittaviśrāntiriṣyate . 31 .

एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।
कुर्वन्नामरणं वाऽपि क्षणं वा सुसमाहितः ॥ ३२ ॥

evaṃ vedāntakalpoktasvātmaliṅgaprapūjanam ;
kurvannāmaraṇaṃ vā’pi kṣaṇaṃ vā susamāhitaḥ . 32 .

सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३ ॥

sarvadurvāsanājālaṃ padapāṃsumiva tyajet ;
vidhūyājñānaduḥkhaughaṃ mokṣānandaṃ samaśnute . 33 .

॥ निर्गुणमानसपूजा सम्पूर्णा ॥

. nirguṇamānasapūjā sampūrṇā .


 
  • Just as in this body, the embodied one passes through boyhood, youth, and old age, so does one pass into another body. With reference to this (birth, aging and death), the wise man is not disturbed. Bhagavan Sri Krishna on Significance of God